Search News Posts

  • General Inquiries :- +91-9799213697

  • Support :- +91-9509559668

Home

अभिज्ञानशाकुन्तलम्

अभिज्ञानशाकुन्तलम्

अभिज्ञानशाकुन्तलम्

|| अभिज्ञानशाकुन्तलम् ||
अभिज्ञान शाकुन्तलम् महाकवि कालिदासेन विरचितमेकं बहु प्रसिद्धं नाटकम् अस्ति। अस्य नाटकस्य नायकः दुष्यन्तः नायिका शकुन्तला चास्ति। दुष्यन्तः शकुन्तलया सह गान्धर्व-विवाहं कृतवान्, तदा सः स्मृतिचिन्हं नाम अङ्‍गुलीयकं दत्तवान्। तत् अभिज्ञानं मुनेः दुर्वाससः शापेन विलुप्तमभवत्। शापवशात् राजा दुष्यन्तः शकुन्तलां विस्मृतवान्।
तदनन्तरं दुष्यन्तेनापमानिता गर्भवती सा वनाश्रमे निवसन्ती भरतनामकं पुत्रमजनयत् । द्वादशवर्षानन्तरं केनचिद् धीवरेण तदंगुलीयकमभिधानं दुष्यन्तः लब्धवान् । तद् दृष्ट्वैव संपूर्णं पूर्ववृत्तं स्मृतवान्। विरहशोकाकुलः सः शकुन्तलामन्वेष्टुं वने परिभ्रमन् तत्राश्रमे गतवान्। तत्र भरतेन सह शकुन्तला मिलितवती । नाटकस्यास्य विश्वसाहित्येऽत्यधिकं महत्त्वं वर्तते। साहित्यसमीक्षकाः कथयन्ति यत् —

 

काव्येषु नाटकं रम्यं तत्र रम्य़ा शकुन्तला।

तत्रापि चतुर्थोंकः तत्र श्लोकचतुष्टयम् ।।

अभिज्ञानशाकुन्तलं नाटकस्य मूलकथावस्तु महाभारतात् आदिपर्वणः शकुन्तलोपाख्यानात् उद्धृतम् ।
नाटकेऽस्मिन् नायिका शाकुन्तला नायकेन राज्ञा दुष्यन्तेन गान्धर्वविवाहविधिना परिणीता । स्वनगरं प्रति परावर्तमानेन तेन “ एकैकमत्र दिवसे दिवसे मदीयं, नामाक्षरं गणय, गच्छसि यावदन्तम्” ॥ इत्युक्त्वा स्वनामङ्कितमंगुलीयकं स्वयमेव शाकुन्तलायाः हस्ते परिधापितम् । इत्यभिज्ञानविषयिणी घटना महाभारतस्यादिपर्वात् गृहीता ।
????कथा-
पुरुवंशस्य राजा दुष्यन्तः कदाचित् मृगयां कुर्वन् अटव्यां हरिणं अनुधावन् मालिनीतीरे विद्यमानस्य कण्वस्य आश्रमं प्रविशति । कण्वः फलपुष्पाणि आनेतुं गत इत्यतः काचित् सुन्दरी तापसकन्या तस्मै स्वागतं करोति । अर्घ्यपाद्यादिभिः सत्करोति सा । तस्याः रूपेण मोहितः दुष्यन्तः स्वपरिचयं तस्यै कुर्वन् तां प्रति – त्वं क्षत्रियोऽसि ? त्वां प्रति मम मनः आकर्षति । अहं त्वां कामये इत्यवदत् । शकुन्तला तु – अहं मेनकाविश्वामित्रयोः पुत्री इति, ताभ्यां यदा परित्यक्ताहं शकुन्तपक्षिभिः रक्षिता इति, ततः कण्वमहर्षिः वने मां दृष्ट्वा आश्रमं प्रति आनीय पोषितवान् इति । शकुन्तपक्षिभिः रक्षिता अहं शकुन्तला इति नामधेयं प्राप्नवम्। यदि मां वोढुं वाञ्छसि तर्हि कण्वमहर्षेः अनुमतिः अपेक्षिता इत्यादिकं सर्वं वृत्तान्तम् अकथयत् ।

दुष्यन्तः तु क्षत्रियाः गान्धर्वविधिना परिणेतुं शक्नुवन्ति । तदर्थं कण्वस्य आक्षेपः न स्यादिति, त्वयि जायमानमेव उत्तराधिकारिरूपेण ताम् अङ्गीकारयित्वा तस्याः पुत्रमेव युवराजं करिष्यामि इति प्रतिश्रुण्वानः तां परिणीतवान् । अग्रे तस्यै राजयोग्यानि वेषभूषणानि सेवकद्वारा प्रेषयामि इति उक्त्वा कण्व मम विषये किं वदेत् इति चिन्तयन्नेव स्वनगरं प्रायात्।

कण्वे आश्रमं प्रत्यागते शकुन्तला तस्य शिरसः उपरि विद्यमानं भारम् अवतारयति । तथापि तस्य मुखं अदृष्ट्वा लज्जया अधोमुखी तिष्ठति । कण्वे लज्जायाः कारणं पृच्छति सति शकुन्तला दुश्यन्तेन साकं कृतविवाहवृत्तन्तं अकथयत् । दिव्यदृष्ट्या सर्वविदितः कण्वः – ”वत्से ! त्वया कृतः अधर्मः न । क्षत्रियाणां गान्धर्वविधिना परिणयः सम्मतः” इति समर्थयति । कालक्रमेण गर्भवती शकुन्तला रूपगुणसम्पन्नोपेतं सुतं असूत । पुत्रस्य षट् वर्षाणि अतीतानि चेदपि दुष्यन्तः नागतः । सः अपि आरम्भदिनेषु कण्वः किमपि वदेत् इति चिन्तयन् न प्रवर्तते स्म, क्रमेण शकुन्तलायाः विषयः तेन विस्मृतः । परं सा तु तं निरीक्षमाणा खिद्यते स्म । बालस्तु धीरः सन् वनस्य सर्वप्राणिनः अपि निगृह्य आत्मानं “सर्वदमन” इति परिचाययति स्म । तं यौवराज्याय अर्हं मन्वानः कण्वः मुहूर्तं निश्चित्य स्वशिष्यैः सह शकुन्तलां तत्पुत्रं च दुष्यन्तस्य राजधानीं प्रति प्रेषयामास ।

यदा शकुन्तला पतिगृहं प्रस्थिता तदा पालितपितुः कण्वस्य नेत्रे अश्रुपूर्णे भवतः । तच्छिष्याः तां राजधानीं प्रापय्य प्रत्यागच्छन्ति । पुत्रेण सह शकुन्तला राजसभायां दुष्यन्तं दृष्ट्वा स्ववृत्तान्तं सर्वं निवेदयति । तस्याः वचनेन स्मृतपूर्ववृत्तान्तः राजा अपि लोकापवादात् भीतः अहं किमपि नजाने इति वदति । तामुद्दिश्य – शकुन्तले ! का त्वम् ? कुतः अत्र आगतं त्वया ? किं साहाय्यम् अपेक्षितम् ? इति अपरिचितः इव सम्भाषते । ततः शकुन्तला – “महाराज ! अयं तव पुत्रः । त्वया आश्रमे दत्तवचनानुसारं तव राज्यस्य उत्तराधिकारी भविता । यदा त्वया आश्रमं प्रति आगतं तदा प्रवृत्तं सर्वं स्मर” इत्यादि रीत्या अभियाचते । दुष्यन्तः शकुन्तलां न विस्मृतवान् आसीत् परं तस्मिन् क्षणॆ किमपि अजानन् इव –
धर्मार्थकामसम्बन्धं न स्मरामि त्वया सह ।

गच्छ वा तिष्ठ वा कामं यद्वापीच्छसि तत् कुरु ॥

अस्य तात्पर्यमेतत् – धर्मार्थकामार्थं त्वया सह सम्बन्धकरणं न मया स्मर्यते । त्वं याहि, अत्रैव तिष्ठ स्वेच्छानुसारं वा कर्म कुरु इति साक्षात् वदति । शकुन्तला अवमानेन लज्जया च पीडिता क्षणं यावत् किङ्कर्तव्यमूढा तिष्ठति । तदा नितरां कुपिता सा दुष्यन्तं सम्यक् निर्भत्सयन्ती- “महाराज ! जानन्नपि कुतः एवं प्रलपसि ? एवम् असत्यं कथयन् त्वं हृदि संस्थितं सर्वसाक्षिणं परमात्मानं मा अवमानय । अहं तव धर्मपत्नी । यदि मां त्यजसि न किमपि दुःखम्, परं एतं तव पुत्रं मा त्यज । मम वचनं यदि उपेक्षसे तर्हि तव शिरः सहस्रशः छिद्रं भविष्यति” इत्यादिभिः वचनैः भर्त्सयति । तथापि दुष्यन्तस्य मनः न द्रवति । पूर्वतनं किमपि न स्मरन् सः अन्ते तामेव “वेश्यापुत्रि !” इति निन्दति । शकुन्तलायाः नयविनयादिभिः याचनादिभिः अपि दुष्यन्तः नाङ्गीकरोति । तदा सा कोपाग्निम् असहमाना पुत्रेण सह ततः निर्गता । तावता – “भरस्व पुत्रं दुष्यन्त ! मावमंस्थाः शकुन्तलाम्” (हे दुष्यन्त ! अयं तव पुत्रः, तं पोषय । शकुन्तलायाः अवमाननं मा कुरु) इति अशरीरवाणी काचित् भविष्यति, शकुन्तलायाः उपरि पुष्पवृष्टिः च भविष्यति । ततः दुष्यन्तः सिंहासनात् अवतीर्य अन्तरिक्षदेवताः नमस्कृत्य राजसभायां मन्त्रिपुरोहितं च उद्दिश्य – “अहं तु एतां जाया इति, अयं तव पुत्रः इति सम्यक् एव अभिज्ञातवान् अधुना अशरीरवाणी जाता इत्यतः अयं पुत्रः मदीयः शुद्धः इति निःशङ्कं कथयामि इति वदन् तम् आलिङ्गितवान्, शकुन्तलां च आदरेण सत्कृतवान् । सर्वदमनः युवराजपदे नियुक्तः सन् अग्रे भरतः इति प्रसिद्धिम् अवाप । शकुन्तला पट्टमहिषी सञ्जाता ।

शकुन्तलादुष्यन्तयोः कथा पुराणकाले अतीव प्रसिद्धः स्यात् अतः इयं कथा न केवलं महाभारते, भागवते, विष्णुपुराणे, हरिवंशे, मत्स्यपुराणे, वायुपुराणे, पद्मपुराणे च दृश्यते । बौद्धानां जातककथायामपि शकुन्तलाकथासदृशी अपरा काचित् कथा विद्यते । जैनसम्प्रदायेऽपि (पार्श्वनाथचरित्रम्) कालिदासस्य शाकुन्तलनाटकसदृशी अन्य कथा दृश्यते । एतैः अंशैः शकुन्तलादुष्यन्तयोः कथा अनादिकालात् अपि प्रचलिता इति ज्ञायते ।

कालिदासस्य नाटकस्य कथायाः महाभारते उक्तायाः कथायाः च तुलनां कुर्मः चेत् अत्र कालिदासस्य रचनाकौशल्यम् उदात्तं रचनात्मकं च परिवर्तनं दृश्यते । कालिदासेन ग्रथितस्य अभिज्ञानशाकुन्तलस्य प्रथमाङ्कः कण्वस्य अश्रमस्य दृश्यम् । तस्य आरम्भः अष्टमूर्तेः शिवस्य स्तवनेन भवति । ततः सूत्रधारः नट्या सह रङ्गं प्रविश्य ग्रीष्म-ऋतुवर्णनद्वारा सङ्गीतस्वादम् अनुभवति । नवीनतया रचितस्य कालिदासस्य नाटकस्य परिचयं कारयति । तदनन्तरं दुष्यन्तः हरिणम् अनुधावन् आगच्छन्नस्ति इति घटनां संसूच्य प्रस्तावनं समाप्य निर्गच्छति ।
ततः दुष्यन्तः कञ्चित् हरिणं अनुधावन् राजा दुष्यन्तः रथं वाहयन् सूतश्च प्रविशतः । दुष्यन्तः यावत् हरिणस्य उपरि बाणं प्रयोक्तुं सिद्धः तावता आश्रमस्य तपस्विनः आगत्य – “राजन् ! आश्रममृगोऽयं मा हन्यताम्” इति वदन्ति । समीपे विद्यमानं कण्वस्य आश्रमं प्रदर्श्य तत्र कण्वः अधुना आश्रमे नास्ति, परं कण्वदुहिता शकुन्तला तव सत्कारं करिष्यति गत्वा अतिथिसत्कारं स्वीकृत्य गच्छ इति सूचयन्ति । दुष्यन्तः स्वयम् एकाकी आश्रमं प्रति गच्छति । तत्रा तिसृभिः तापसकन्यकाभिः वृक्षेभ्यः जलं सिच्यमानम् असीत् । तासां मधुराणि सम्भाषणानि प्रच्छन्नः स्थित्वैव शृणोति । तासु तिसृषु अन्यतमायाः शकुन्तलायाः अप्रतिमं सौन्दर्यं विलोक्य विस्मितः भवति राजा । तस्याः अव्याजमनोहरं सौन्दर्यं स्वदते सः । तासां पुरतः आत्मानं दर्शयितुं समयं प्रतीक्षमाणः भवति । तावता कश्चन भ्रमरः शकुन्तलां पीडयन् भवति । तदा राजा आत्मनः प्रकटनाय अयं समुचितः कालः इति चिन्तयन् तद्दूरीकरणाय सः प्रविशति । तयोः सख्योः सम्भाषणेन शकुन्तला विश्वामित्रमेनकयोः पुत्रीति, ताभ्यां परित्यक्ता शकुन्तपक्षिभिः वने पोषितां तां कण्वमहर्षिः आश्रमं प्रति आनीय तां पोषयन् अस्ति इत्यादिविषयान् ज्ञात्वा राजा सन्तुष्टः भवति । एषा क्षत्रियकन्या, मया परिणेतुं योग्या इति चिन्तयन् मनसि हृष्टः भवति ll

माध्यम   facebook

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!